संस्कृत सम्भाषणशिविरं विद्या भारती मेरठ प्रांतम्।
दश दिवसीय: संस्कृत संभाषण शिविरस्य समापनावसरे संस्कृत शिक्षाया: क्षेत्रीय संयोजक: श्रीमन् रामधुन पाल महोदय:अतिथिगणानां परिचयं कृतवान्। स:द्वौ दिसंबरत: एकादशदिसम्बरपर्यन्त: आयोजित :दशदिवसीय: संस्कृतसंभाषण शिविरे अध्यापिता विविधा: सम्भाषणविधाया: सर्वान् अतिथिगणान् परिचयं कारितवान्।
सम्भाषणशिविरे सप्त ककाराणां
(किम्,कति,कुत्र,कदा,कुत:,कथं किमर्थम् ) अभ्यासं सरलवाक्यानां प्रशिक्षक: महोदयेन कृतम्।
तेन उपस्थानं, अभ्यासं( पदाभ्यासं वाक्याभ्यासम् ) कल्पना वाक्यं, अभिनयं, समीपस्थ: दूरस्थ: प्रदर्शिता पदानां माध्यमेन सम्भाषणकौशलं रूचिकरं कृतम्।
समापनं बौद्धिकं १-संस्कृति भारती मेरठ प्रान्तत: आदरणीय अमित महाभाग: संस्कृत भाषायां सारगर्भित उद्बोधनं कृतवान्।
तेन देववाणी संस्कृतस्य गौरवययी प्रतिष्ठाया:सोदाहरणं व्याख्या कृता।तेन सर्वेषां आचार्यान् कथितं यत् आचार्या: कक्षाकक्षे दैनिक व्यवहारे प्रेरणादायी प्रस्तुतं कृत्वा संस्कृतभाषाया:गौरवं वर्धयेत।
समापनं बौद्धिकं २- आदरणीय: महेश चंद शर्मा (नगरीय शिक्षा विद्या भारत्या: मेरठ प्रांतस्य प्रदेश निरीक्षक:) संस्कृत भारती मेरठ प्रान्तस्य प्रशिक्षक :श्रीमन् शशिकांत शास्त्रीश्रीमन अमित महाभागयो: धन्यवादं ज्ञापितम्।
तेन सर्वान् शिक्षकान् प्रति कृतज्ञता ज्ञापिता। तेन आचार्यान् संस्कृतसंभाषणस्य विधानां प्रयोगं कक्षा कक्षे समाजे च कर्तुंआह्वाहितम् ।
कार्यक्रमस्यान्ते श्रीमन् नरेश शास्त्री महोदयेन सर्वेषां अतिथिगणानां प्रतिभागिनां च आभारं ज्ञापितम्।
संस्कृतगीतं शांतिमंत्रोपरान्ते संस्कृत संभाषणशिविरं समापितम् ।